विवर्गाक्षरी

विगतानि वर्गाक्षराणि यस्यामिति व्युत्पत्त्या यस्यां कवितायां कस्यचन वर्गविशेषस्य अक्षराणि यत्नेन वारितानि भवन्ति सा विवर्गाक्षरीति गीतमविगीतैर्विचक्षणैः । अनेनापि प्रकारेण निषिद्धाक्षरीविभागः शक्यो वर्तयितुम् । अत्र वर्गनिषेधो द्वेधा भवितुमर्हति यथा –

  1. कृत्स्ने पद्ये कस्यचन वर्गस्य निषेधः
  2. एकैकस्मिन् पादे एकैकस्य वर्गस्य निषेधः

तदेतदुभयमपि एकैकेनोदाहरणेन स्फुटीक्रियते –

1. विषयः – शिवः । निषिद्धवर्गः – पवर्गः । अवधानी – शतावधानी डा. आर्. गणेशः ।

तुहिनशिखरवासो दिव्यरौद्राट्टहासो

ललितसितशरीरः कालकालावतारः ।

नतजननयनार्को नानुनीताढ्यतर्कोऽ

वतु कवनवितीर्णः शङ्करः शान्तिकीर्णः ॥ (शतावधानिरचनासञ्चयनम्, 352)

अपवर्गमिदं पद्यमिति पठनेनैव वेत्तुमलम् । यतिस्थानेषु कृतपदा ‘वासो–हासो’, ‘शरीरः–वतारः’ चेत्यादिका पदमैत्री पद्येऽस्मिन् चारुतानिदानम् । नतजननयनार्क इति रूपकमपीह रस्यतां तनोति ।  

2. विषयः – गजेन्द्रमोक्षः । अवधानी – श्री. पिसुपाटि चिदम्बरशास्त्री ।

निषिद्धः – प्रथमे पादे तवर्गः, द्वितीये पवर्गः, तृतीये चवर्गः, चतुर्थे तवर्गश्च ।

ग्राहावकृष्टचरणस्य गजेश्वरस्य

त्राणाय सत्वरगतिः सकलान् विसृज्य ।

सम्प्राप्तवानयमहो हरिरादिदेवः

शीघ्रक्रमश्च बहुभिर्मुहुरीक्षणीयः ॥ (The Art and Science of Avadhānam in Sanskrit, 123)

मकरग्रस्तस्य करिणः परित्राणे हरेः संरम्भं रमणीयम् अभिव्यनक्ति पद्यमिदम् । कविनोपात्तं वसन्ततिलकावृत्तमपि निर्यतिकत्वादिह महदौचित्यमञ्चति ।

सैषा विवर्गाक्षरी प्रत्यक्षरनिषेधवदवधानिनं न त्रासयति । अस्याः प्रत्यक्षरनिषेधापेक्षया अल्पसमयसाध्यत्वमपि निश्चप्रचम् । अतोऽस्मिन् प्रकारे क्वचिन्मालिनी मन्दाक्रान्ता शिखरिणी चेत्यादीनां वृत्तानामपेक्षा न दुष्यति । वर्गनिषेधश्चासौ चतुर्ष्वपि चरणेषु कर्तव्यः ।[i]     

तदेवम् अवधानेषु प्रसिद्धौ निषिद्धाक्षर्या उभावपि प्रकारौ विवृतौ । अनयोः प्रकारयोः प्रत्यक्षरनिषेधो रस्यतरो यदसौ प्रतिपदं प्रष्ट्रवधानिनौ विचारपरौ कुरुते, सहृदयान् सविस्मयकौतूहलस्य परां काष्ठां नयते च । अतोऽवधानेषु निषिद्धाक्षर्याम् अमुमेव प्रकारं स्पृहयन्ति सचेतसः ।

उदाहरणान्तराणि

तदेवं न्यरूपि निखिलमपि निषिद्धाक्षरीसम्बद्धं विषयजातम् । अथात्र अन्यान्यपि कानिचन पद्यान्युदाह्रियन्ते, येषां पर्यालोचनया प्रागुक्ता अंशाः स्फुटीभवन्ति सचेतश्चेतसि । विभागेऽस्मिन् देवतास्तुतिपर एव विषयो निर्दिश्यते प्रायेण । तथापि अवधानिभेदेन अन्येऽपि - समुद्रमथनप्रभृतयः पौराणिकाः, मार्कण्डेयकाट्जुप्रमुखाः प्रासङ्गिकाः, तालवृन्तमुख्या लौकिकाः, सूर्योदयादयो वर्णनाप्रधानाश्च विषयाः तत्र तत्र निर्दिष्टा दृश्यन्ते । तन्मुखेनैव उदाहरणान्तराणि उपस्थाप्यन्ते, यथा -

1. देवतास्तुतिः । विषयः – हरिहरः । अवधानी – शतावधानी डा. आर्. गणेशः ।

वनधरतनयाधवं भजेऽहं

घनतमरम्यविनीलकन्धराभम् ।

करकनदभयं कपालमाला-

स्फुरदुरुवत्समथो हरिं हरं च ॥ (शतावधानिरचनासञ्चयनम्, 329)

पद्यमिदं नैकैर्विशेषैरस्मदीयम् अवधानं समर्हति । अत्र प्रयुक्तं वृत्तं पुष्पिताग्रा, याऽस्मिन् विभागे न इष्यते भूयोभिरवधानिभिः । पद्येऽस्मिन् प्रयुक्तानि सर्वाणि विशेषणानि श्लेषबलेन हरे हरौ चोभयत्र अनुयन्ति । यथा – वनशब्दस्य काननं सलिलं चेत्यर्थयोर्ग्रहणेन लक्ष्मीः पार्वती चोभे अपि वनधरतनये भवतः । करकनदभयं चेत्यादीनि रमणीयानि समस्तपदान्यपीह कल्पितानि । एवमिदं पद्यं तथा शिल्पितं कविना यदेतत्प्रत्यक्षरनिषेधजन्यं पद्यमिति अङ्गीकृतिः सुदुष्करा स्यादस्माकम् । काव्यधर्ममहर्निशं जुषमाणेनैवावधानिना साध्या स्यादीदृशी निर्मितिः ।

2. पौराणिकमाख्यानम् । विषयः – नलः । अवधानी – श्री. पिसुपाटि चिदम्बरशास्त्री ।

अयं राजा साक्षाज्जयमसमभाग्योच्चयगुरुः

समं प्राप्य क्षोण्या सुरुचिरयशाः पुण्यविजयः ।

बभौ भैमीप्राणप्रिय इह पुरा स प्रभुमणि-

श्चिरं सेव्यं सेव्यः प्रबलकरणैर्भावुकगुणैः ॥ (The Art and Science of Avadhānam in Sanskrit, 122)

इह कृत्स्ने पद्ये तवर्गः प्रतिषिद्ध इति कृत्वा पद्यमिदं विवर्गाक्षरीप्रकारकम् । तदेतत् शिखरिण्या निबद्धमस्ति, यन्न सुकरं विवर्गाक्षर्याम् । तथापीह प्रसन्नपद्यरचना स्तुत्यर्हतां भजते । तवर्गो निषिद्ध इति कृत्वा नलशब्दमानेतुमिह नापीपरदवधानी । तथापि तेन भैष्मीप्राणप्रियप्रमुखैः शब्दैः पद्यं किंविषयकमिति स्वयंवेद्यं यच्चक्रे तदपि स्तुत्यं नः ।

3. प्रासङ्गिकवृत्तम् । विषयः – मार्कण्डेयकाट्जुः । अवधानी – डा. शङ्करराजारामः ।

दुर्धीवर्धी हर्म्यभूर्धार्ष्ट्यसक्तः

सम्यग्जैनत्रातृरत्नं मतान्धम् ।

मृत्योर्हर्षो निम्नताभृच्छिवघ्नो

मार्कण्डेयः कण्टको नीतिमार्गे ॥ (The Art and Science of Avadhānam in Sanskrit, 121)

अस्य पद्यस्य विषयो जनः सर्वोच्चन्यायालयस्य भूतपूर्वो न्यायाधीशः । तस्मादिह वर्णनास्पदत्वं न लेशतोऽपि । अतः प्रतिभासम्पन्नेनाप्यवधानिना पद्यशिल्पत एव सौन्दर्यं पारितमानेतुं न त्वलङ्कारविशेषैः । तथा च तेन विषयभूतस्य जनस्य पौर्वापर्यं किञ्चिद्वा विदितं भवेत् पद्यप्रबन्धार्थम् । यद्यवधानी दैनिकवृत्तान्तेषु आत्मानं शिक्षितं न कुरुते तर्हि ईदृशप्रसङ्गेषु तस्य कान्दिशीकत्वं दुर्वारमेव स्यात् ।

4. वर्णनाप्रधानम् । विषयः – देहली ।

देहलीदिष्टपुष्पाणि प्रेक्ष्य तोरणपल्लवाः ।

प्रहसन्ति परन्त्वेका रङ्गवल्ली वयस्यति ॥ (शतावधानिरचनासञ्चयनम्, 119)

वस्तुतस्त्विह चर्तुर्ष्वपि पादेषु संवृत्तो वर्णनिषेधः । तथापि पद्यम् उदारार्थकम् अभिरामगात्रं च सन्दृब्दमिति विशेषो हृदयावर्जकः । यूयम् अधःस्थिताः वयं तु उपरि इति भावेन तोरणपल्लवाः देहलीगतानि पुष्पाण्युपहसन्ति । किञ्च सर्वस्यापि नश्वरत्वं विदती रङ्गवल्ली पुष्पाभ्याशे एव कृतवासा तन्मैत्रीमातिष्ठति – इत्येतद्रूपः अस्य पद्यस्य भावो नितान्तं हृद्यः । अनेनाभिव्यज्यमानः ‘न कोऽपि नैच्यभावेन द्रष्टव्यः’ इति सन्देशोऽपि नः सूपादेयः ।

उपसंहारः

तदेवं निषिद्धाक्षरीप्रपञ्चः, अवधानोपयुक्तौ तदीयौ द्वौ प्रकारौ, तत्र प्रष्ट्रा अवधानिना सहृदयैश्च अवधेयाः अंशाः, तन्निर्वाहे अपेक्षितं ज्ञानं कौशलं च – इत्येते विषयाः अवधानसमयमाश्रित्य नैकैरुदाहरणैः सहितं न्यरूपिषत । अनेनाध्ययनेन उपलब्धानंशान् कारिकाभिः पुनः प्रस्तूयन्ते सहृदयविनोदाय -   

यत्र प्रत्यक्षरन्यासमेकाक्षरनिषेधतः ।

वधानी रचयेत्पद्यं सा निषिद्धाक्षरी मता ॥१॥

चतुर्थे चरणे स्वैरं पदानि निदधत् कविः ।

सङ्गतार्थतया वाक्यं समाप्तिं नेतुमर्हति ॥२॥

निषेधं व्यञ्जनस्यैव कुर्यात् प्रष्टाविलम्बितम् ।

क्वचिद् युक्त्या स्वरस्यैवमनिषेधोऽपि कुत्रचित् ॥३॥

क्वचिद् वर्गनिषेधेन पादपूरणमीप्सता ।

प्रष्ट्रा विस्मायनीया स्यात् समितिः सावधानिनी ॥४॥

नेयार्थकाप्रतीतार्थक्लिष्टगूढार्थतादयः ।

चित्रकाव्यतया न्वेतां दूषयन्ति न जातुचित् ॥५॥

यत्र यन्न निवार्यं स्यात् तत्र तन्न हि दुष्यति ।

नाल्पाक्षरत्वहानिः स्यात् सूत्रेष्वचतुरादिषु ॥६॥

वसन्ततिलकान्तानि वृत्तानीह मुदे सताम् ।

द्राघीयांसि न शस्यन्ते समयाशीनि भूरिशः ॥७॥

सुसमृद्धाङ्गतादिष्टविराजद्वर्णनास्पदः ।

विषयोऽत्र प्रदातव्यो न सङ्कुचितवर्त्मकः ॥ ८॥

कोशव्याकृतिशास्त्रादिज्ञानसम्पन्नचेतसा ।

शक्या तरीतुमेषा स्यादविपन्नतयाञ्जसा ॥९॥

------------------------------------------------------------------

सन्दर्भग्रन्थसूची

  1. Avadhāna-vidya. Subbanna, CV. Hyderabad: Telugu University, 1987.
  2. Kannaḍadalli Avadhāna-kale. Ganesh, R. Hubli: Sahitya Prakashana, 2015.
  3. Śatāvadhāni-racanā-sañcayanam. Ganesh, R. (Ed. Shukla, Balram). New Delhi: Sahitya Academy, 2019.
  4. The Art and Science of Avadhānam in Sanskrit. Ganesh, R. & Shashi Kiran, BN. Bangalore: Prekshaa Pratishtana, 2020.    


[i] निषिद्धाक्षर्यां वसन्ततिलकान्तान्येव वृत्तानि देयानीति, तुरीये चरणे वर्णनिषेधो न कर्तव्य इति च प्रागुक्तो नियमः प्रत्यक्षरनिषेध एव, विवर्गाक्षर्यां स नान्वेतीति भावः ।


Concluded.